अष्टाध्यायी सूत्रानुक्रमणिका के बारे में
काशिका-काशिकावृत्तिन्यास-बालमनोरमा-तत्त्वबोधिनीत्यादि-OFFLINE वर्तन्ते
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।।
अर्थात् सत्यं यदस्ति तदेव ज्ञानम् । ब्रह्मसत्यं जगन्मिथ्या इति महावाक्यं स्वीकृत्य ब्रह्मणः ज्ञानात्मकत्वं सिद्ध्यति। अपि च यदि ब्रह्म एव ज्ञानं तर्हि शब्दः एव ब्रह्म इति, तदेव ज्ञानम्। एवं शब्दाश्लिष्टं ज्ञानमिति प्रतिपादयितुं शक्नुमः । यदि शब्दः एव ब्रह्म, अपि च ब्रह्म एव ज्ञानम् । तर्हि शब्दज्ञानमेव मोक्षप्राप्तेः साधनमिति प्रतिपादयितुं शक्नुमः । तथा च शब्दब्रह्मणः ज्ञानप्राप्त्यर्थं व्याकरणमेव एकं प्रमुखं साधनमस्ति । अर्थात् ब्रह्मज्ञानप्राप्तेः साधनं व्याकरणशास्त्रमासीत् अस्ति स्थास्यति च सम्प्रति इदमेव शास्त्रं साध्यरूपेण प्रतिभाति छात्राणां सम्मुखे । तत्र मुख्यं कारणं भवति व्याकरणशास्त्रस्य जटिलत्वम् । यतोहि पाणिनीयव्याकरणं पाणिनीयविधिमाध्यमेन न अध्याप्यते। शास्त्रेऽस्मिन् कानिचन वैज्ञानिकानि तत्त्वानि सन्ति तेषां तत्त्वानां ज्ञानम् अनेन माध्यमेन एव भवितुमर्हति । यथा- अधिकारज्ञानम्, अनुवृत्तिज्ञानम्, प्रकरणज्ञानञ्च।
वस्तुतः एतत् सर्वं विचिन्त्य एव पाणिनीयमाध्यमेन अस्य शास्त्रस्य अध्ययनम् अध्यापनं भवतु तथा च अस्य शास्त्रस्य सर्वे टीकाग्रन्थाः एकत्रीभूय पिपठिषूणां जिज्ञासाशान्तये प्रवृत्ताः भवेयुः एतदर्थं Android App निर्माणं कृतम् ।
• प्रथमे पाणिनी अष्टाध्यायी ऐप मध्ये अष्टाध्याय्याः अध्याय-पाद-सूत्र क्रमेण सर्वाणि सूत्राणि पदच्छेद–समास-अर्थ – वृत्ति – लघुसिद्धान्तकौमुदी – उदाहरण – समास – प्रथमावृत्ति – काशिका – काशिकावृत्ति- न्यास – बालमनोरमा - तत्त्वबोधिनीत्यादिटीकाभिः ONLINE सुसज्जितानि वर्तन्ते ।
• द्वितीये सिद्धान्तकौमुदीति ऐप मध्ये सिद्धान्तकौमुद्यनुसारं सर्वाणि सूत्राणि पदच्छेद – समास – अर्थ- वृत्ति – लघुसिद्धान्तकौमुदी – उदाहरण – समास – प्रथमावृत्ति - काशिका-काशिकावृत्तिन्यास-बालमनोरमा-तत्त्वबोधिनीत्यादिटीकाभिः ONLINE सुसज्जितानि वर्तन्ते ।
• तृतीये अस्मिन् अष्टाध्यायी सूत्रानुक्रमणिका इति ऐप मध्ये छात्राणामध्यापकानाञ्च अनुरोधेन अकारादिक्रमेण सर्वाणि सूत्राणि पदच्छेद – समास - अर्थ - वृत्ति - लघुसिद्धान्तकौमुदी - उदाहरण - समास -प्रथमावृत्ति - काशिका - काशिकावृत्तिन्यास - बालमनोरमा - तत्त्वबोधिनीत्यादि - टीकाभिः OFFLINE सुसज्जितानि वर्तन्ते । अत्र सर्वेषां सूत्राणां टीकादीनां प्रदर्शनम् अन्तर्जालं विनैव कर्तुं शक्यते ।
Android App इदं कथं प्रतिभाति इति स्वाशयं विज्ञाप्य अवश्यमेव उपकरिष्यन्ति भवन्तः इति मे विश्वासः । अनेन प्रोत्साहनेन ऐप निर्माणाय अभियन्तुः आयुष्मतः सृजनझामहोदयस्य प्रोत्साहनमपि भविष्यति ।
इत्थम्
प्रो. मदनमोहन झाः
What's new in the latest 4.3
अष्टाध्यायी सूत्रानुक्रमणिका APK जानकारी
अष्टाध्यायी सूत्रानुक्रमणिका के पुराने संस्करण
अष्टाध्यायी सूत्रानुक्रमणिका 4.3
अष्टाध्यायी सूत्रानुक्रमणिका 4.0
अष्टाध्यायी सूत्रानुक्रमणिका 3.8
अष्टाध्यायी सूत्रानुक्रमणिका 3.7

APKPure ऐप के माध्यम से सुपर तेज़ और सुरक्षित डाउनलोडिंग
एंड्रॉइड पर XAPK/APK फ़ाइलें इंस्टॉल करने के लिए एक-क्लिक करें!