عن Hindi-Sanskrit Speak Shabdkosh
दैनन्दिन-सम्भाषणाय नित्यव्यवहारोपयोगिसामान्यशब्दा: आवश्यका: भवन्ति।
दैनन्दिन-सम्भाषणाय नित्यव्यवहारोपयोगिसामान्यशब्दा: आवश्यका: भवन्ति। यथा – बन्धुबान्धवानां नाम و शरीराङ्गानां नाम و फलानां नाम و शाकानां नाम و गृहोपयोगिवस्तूनां नाम و भोज्यपदार्थानां नाम इत्यादय: अत: एतादृशव्यावहारिकशब्दानां संग्रह: एतस्मिन् सम्भाषणकोषे कृतम्।
प्रास्ताविकम्
प्रिय संस्कृतबन्धो! नम: संस्कृताय।
`भाष्यते इति भाषा 'इति व्युत्पत्त्या यया भाष्यते सा भाषा ؛ अत: `संस्कृतम् 'भाषा، यतोहि संस्कृतेन अस्माभि: सम्भाष्यते। संस्कृतसम्भाषणाय आवश्यका: भवन्ति शब्दा: ، शब्दज्ञानाय अपेक्षित: भवति शब्दकोष :। `शब्दकोष: 'तादृश: यत्र सम्भाषणोपयोगिशब्दानां संग्रह: स्यात्، अत: एतस्मिन् पुण्यकर्मणि गुर्वाज्ञया अस्माभि: प्रवृत्तम्। दैनन्दिन-सम्भाषणाय नित्यव्यवहारोपयोगिसामान्यशब्दा: आवश्यका: भवन्ति। यथा – बन्धुबान्धवानां नाम و शरीराङ्गानां नाम و फलानां नाम و शाकानां नाम و गृहोपयोगिवस्तूनां नाम و भोज्यपदार्थानां नाम इत्यादय: अत: एतादृशव्यावहारिकशब्दानां संग्रह: एतस्मिन् सम्भाषणकोषे कृतम्।
यदि अहर्निशं सर्वदा सज्र्ल्पपूर्वकं संस्कृतेन एव सम्भाषणीयं तर्हि कदाचित् क्रोधादिसमये गालिशब्दानाम् अपि अस्माभि: बहुधा अनुभूयते एव؛ अत: अत्र गालिपदानाम् अपि सज्र्लनं कृतम्। भर्तृहरिणा अपि उक्तम्–
`` ददतु ददतु गालीर्गालिमन्तो भवन्तो ،
वयमपि तदभावाद् गालिदानेऽसमर्था: '' –भर्तृ. 3/133
एवमेव सम्भाषणोपयोगिक्रियापदानाम्، अव्ययपदानां، पर्यायवाचि-विलोम-अनेकार्थकशब्दानामपि सज्र्लनम् अत्र कृतम्। मन्ये संस्कृतगङ्गाप्रयासेन निर्मित: एष: `` सम्भाषणशब्दकोष: '' सर्वोपयोगी स्यात्। शब्दकोषे सज्र्लितानां शब्दानां यदि वयं सम्यक् अभ्यासं कुर्म: तर्हि निश्चयेन संस्कृतसम्भाषणे समर्था: भवेम। उक्तं च-
युवा वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा। अभ्यासात् सिद्धिमाप्नोति सर्वकार्येष्वतन्द्रितः ।।
अभ्यासेन क्रियाः सर्वा अभ्यासात् सकलाः कलाः। अभ्यासात् ध्यानमौनादि किमभ्यासस्य दुष्करम् ।।
। लिङ्गादिनिर्धारणे उत नूतनशब्दरचनासु कुतश्चित् बुद्धिस्खलनं भवेत् एव तदर्थं क्षन्तव्योऽयं। :।
परिष्काराय भवतां परामर्श: अपेक्षित :। कोषेऽस्मिन् कृतकार्यकर्तृन् सर्वान् संस्कृतगङ्गा सकार्तज्ञ्यं स्मरति।
संस्कृतगङ्गा ، दारागञ्ज: ، प्रयाग: सर्वज्ञभूषण:
अक्टूबर ، २०१७
कृतज्ञता-ज्ञापनम्
अम्बिकेश प्रताप सिंह- (उपसचिव) و संस्कृतगङ्गा و दारागञ्ज و प्रयाग
मनीष कुमार गोस्वामी ، (शिक्षक) ، संस्कृतगङ्गा ، दारागञ्ज ، प्रयाग
धनञ्जयशास्त्री `जातवेदा: '- (कुलाचार्य :) आर्यसमाज، हरीनगर، नयी दिल्ली
सर्वेश कुमार मिश्र- (सम्भाषण-शिक्षक) संवादशाला، काशी، (उ.प्र)
विशुद्धानन्द ब्रह्मचारी-ज्योतिषपीठ و बदरिकाश्रम و हिमालय
डॉ ० राघव कुमार झा- (असिस्टेण्ट प्रोफेसर) संस्कृतविभाग
राधे हरि राजकीय स्नातकोत्तर महाविद्यालय काशीपुर ، ऊधमसिंह नगर ، उत्तराखण्ड
श्वेता द्विवेदी- (संस्कृत शिक्षिका) रोहिणी، नयी दिल्ली
डॉ ० कुन्दन कुमार- (संस्कृत शिक्षक)
राजकीय बाल उ ० मा ० विद्यालय ، ढाका ، नयी दिल्ली।
राजकुमार गुप्ता، `राजू पुस्तक केन्द्र '- अल्लापुर، इलाहाबाद
अम्बर केसरवानी (कम्प्यूटर ऑपरेटर) संस्कृतगङ्गा दारागंज، इलाहाबाद
What's new in the latest 1.5
معلومات Hindi-Sanskrit Speak Shabdkosh APK
الإصدارات القديمة لـ Hindi-Sanskrit Speak Shabdkosh
Hindi-Sanskrit Speak Shabdkosh 1.5
Hindi-Sanskrit Speak Shabdkosh 1.3
قم بتنزيل سريع وآمن بالغاية عبر تطبيق APKPure
قم بتثبيت ملفات XAPK/APK بنقرة واحدة على أندرويد!